|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.250. अध्यायः 250
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
पार्वत्या महेश्वरंप्रति स्त्रीधर्मकथनम्॥ 1 ॥ नारदेन कृष्णंप्रति उमामहेश्वरसंवादानुवादोपसम्हारः॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
पतिमत्या दिवारात्रं वृत्तान्तं श्रूयतां शुभम्।
पत्युः पूर्वं समुत्थाय प्रातःक्रम समाचरेत्॥ 13-250-1(91292)
पत्युर्भावं विदित्वा तु पश्चात्सम्बोधयेत्तु तम्।
नित्यं पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि॥ 13-250-2(91293)
निवेद्य च तथाऽऽहारं यथा सम्पद्यतामिति।
तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत्॥ 13-250-3(91294)
यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते॥ 13-250-4(91295)
शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया।
भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः॥ 13-250-5(91296)
आगतं तु पतिं दृष्ट्वा सहसा परिचारणम्।
स्वयं कुर्वीत सम्प्रीत्या कायश्रमहरं परम्॥ 13-250-6(91297)
पाद्यसनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः।
अतिथीनामागमेन प्रीतियुक्ता सदा भवेत्॥ 13-250-7(91298)
कर्मणा वचनेनापि तोषयेदतिथीन्सदा।
मङ्गलं गृहशौचं च सर्वोपकरणानि च॥ 13-250-8(91299)
सर्वकालमवेक्षेत कारयन्ती च कुर्वती।
धर्मकार्ये तु सम्प्राप्ते तद्वद्धर्मपरा भवेत्॥ 13-250-9(91300)
अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता।
सा यत्नं परमं कुर्यात्तस्यि साहाय्यकारणात्॥ 13-250-10(91301)
धुरन्धरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा।
विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम्॥ 13-250-11(91302)
अलङ्कृत्य यथायोगं मन्दहाससमन्वितम्।
वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम्॥ 13-250-12(91303)
कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे।
यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत्॥ 13-250-13(91304)
अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम्।
अनन्तरमथान्येषां भोजनावेक्षणं चरेत्॥ 13-250-14(91305)
दासीदासबलीवर्दांश्चण्डालं च शुनस्तथा।
अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च।
पूजयेद्बलिभैक्षेण पत्युर्धर्मं विवर्धयेत्॥ 13-250-15(91306)
कुपितं वाऽर्थहीनं वा श्रान्तं वोपचरेत्पतिम्।
यता स तुष्टः स्वस्थश्च तथा सन्तोषयेत्पतिम्॥ 13-250-16(91307)
यथा कुटुम्बचिन्तायां विवादे वाऽर्थसञ्चये।
आहूता तत्सहायार्थं तथा प्रियहितं वदेत्॥ 13-250-17(91308)
अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया।
एकान्तचर्याकथनं कलहं वर्जयेत्परैः॥ 13-250-18(91309)
बहिरालोकनं चैव मोहं व्रीडां च पैशुनम्।
बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत्॥ 13-250-19(91310)
रहस्येकासनं साध्वी न कुर्यादात्मजैरपि।
यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत्॥ 13-250-20(91311)
विस्मृतं वाऽपि यद्द्रव्यं प्रतिपद्यात्स्वशौचतः।
यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुकी भवेत्॥ 13-250-21(91312)
अतीवाज्ञामतीर्ष्यां च दूरतः परिवर्जयेत्।
बालवद्वृद्धवद्भार्या सदैवानुचरेत्पतिम्॥ 13-250-22(91313)
भार्याया व्रतमित्येव कर्तव्यं सततं विभो।
एतत्पतिव्रतावृत्तमुक्तं देव समासतः॥ 13-250-23(91314)
न च भोगे न चैश्वर्ये न सुखे न धने तथा।
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता॥ 13-250-24(91315)
पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः।
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः॥ 13-250-25(91316)
जातिष्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो।
कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम्।
तत्सर्वं लभते नारी सुखेन पतिपूजया॥ 13-250-26(91317)
यथासुखं पतिमती सर्वं पत्यनुकूलतः।
ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति।
एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः॥ 13-250-27(91318)
तपश्चर्या च दानं च पतौ तस्याः समर्पितम्।
रूपं कुलं यशस्तेजः सर्वं तस्मिन्प्रतिष्ठितम्॥ 13-250-28(91319)
एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः।
स्वभर्त्रा च सम गच्छेत्पुण्यलोकान्सुकर्मणा॥ 13-250-29(91320)
वृद्धो विरुपो बीभत्सो धनवान्निर्धनोऽपि वा।
एवंभूतोपि वै भर्ता स्त्रीणां भूषणमुत्तमम्॥ 13-250-30(91321)
आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम्।
या पतिं तोषयेत्साध्वी सा पत्नीनां विशिष्यते॥ 13-250-31(91322)
दरिद्रांश्च विरूपाश्च प्रमूढान्कुष्टसंयुतान्।
पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते॥ 13-250-32(91323)
एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत्।
तदाऽनुमरणं गच्छेत्पुनर्धर्मं चरेत वा॥ 13-250-33(91324)
एतदेवं मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः।
देवदानवगन्धर्वा मनुष्या इति नैकधा॥ 13-250-34(91325)
सौम्यशीलाः शुभाचाराः सर्वास्ताः सम्भवन्ति च।
यथा शुभं प्रवक्ष्यामि स्त्रीणां धर्मं महेश्वर॥ 13-250-35(91326)
आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भन्ति हि।
तासां वृत्तमशेषेण श्रूयतां लोककारणात्॥ 13-250-36(91327)
न्यायतो वाऽन्यथा प्रोक्ता भावदोषसमन्विताः।
भर्तॄनुपचरन्त्येव रागद्वेषबलात्कृताः॥ 13-250-37(91328)
स्वधर्मविमुखा भूत्वा प्रदूष्यन्ति यतस्ततः।
प्रवृद्दविषया नित्यं प्रतिकूलं वदन्ति च॥ 13-250-38(91329)
अर्थान्विनाशयन्त्येवं न गृह्णन्ति हितं क्वचित्।
स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा॥ 13-250-39(91330)
गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव।
पुनर्भवन्ति पापिष्ठा विषमं वृत्तमास्थिताः॥ 13-250-40(91331)
अनवस्थितमर्यादा बहुवेषा व्यवस्थिताः।
असन्तुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम्॥ 13-250-41(91332)
भोगप्रिया हितद्वेष्याः कामभोगपरायणाः।
प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः॥ 13-250-42(91333)
एवंवृत्तसमाचारा आसुरं भावमाश्रिताः।
अपकारपरा नित्यं सततं कलहप्रिया॥ 13-250-43(91334)
परुषा रुक्षवचना निर्घृणा निरपत्रपाः।
निःस्नेहाः क्रोधनाश्चैव भर्तृपुत्रस्वबन्धुषु॥ 13-250-44(91335)
घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च।
पतीन्व्यभिचरन्त्येव दुर्मार्गेण यथा तथा।
बन्धुभिर्भर्त्सिता भूत्वा गृहकार्याणि कुर्वते॥ 13-250-45(91336)
अथवा भर्त्सिता देव निवृत्ताः स्वेषु कर्मसु।
तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः॥ 13-250-46(91337)
निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपकाः।
धर्मर्थरहिता घोराः सततं कुर्वते क्रियाः॥ 13-250-47(91338)
अनर्थे निपुणाः पापाः परप्राणेषु निर्दयाः।
एवंयुक्तसमाचाराः स्त्रियः पैशाचमाश्रिताः॥ 13-250-48(91339)
अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः।
अशुद्धा मलदिग्धाङ्ग्य पानमांसरता भृशम्।
वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च। 13-250-49(91340)
दुष्पसादा महाक्रोधाः स्वप्नशीला निरन्तरम्।
तामस्यो नष्टतत्वार्था मन्दशीला महोदराः।
भुञ्जते विविधं सिद्धं भोजनं तीव्रसम्भ्रमाः॥ 13-250-50(91341)
गुणरूपवयोयुक्तं पतिं कामिनमुत्तमम्।
हित्वाऽन्येनैव गच्छन्ति सर्वधा भृशतापिताः॥ 13-250-51(91342)
निर्लज्जा धर्मसन्दिग्धाः प्रतिकूलाः समन्ततः।
एवंरूपसमाचाराः स्त्रियो राक्षसमाश्रिताः॥ 13-250-52(91343)
एवंविधानां सर्वासां न परत्र महासुखम्।
नरकाद्विप्रमुक्तानां मानुष्यं दुर्लभं भवेत्॥ 13-250-53(91344)
कष्टं तत्रापि भुञ्जन्ते स्वकृतं दुःखजं बहु।
दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः।
विधवा दुर्भगा वाऽपि लभन्ते दुःखमीदृशम्॥ 13-250-54(91345)
शतवर्षसहस्राणि निरयं व्यभिचारिणी।
व्रजेत्पतिं च पापेन संयोज्य स्वकुलं तथा॥ 13-250-55(91346)
एतद्विज्ञाय पतितं पुनश्चेद्धितमात्मनः।
कुर्याद्भर्तारमाश्रित्य तथा धर्मवमाप्नुयात्॥ 13-250-56(91347)
अतिसंयान्ति ताँल्लोकान्पुण्यान्परमशोभनान्।
अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा॥ 13-250-57(91348)
वर्तमानास्च सततं भर्तॄणां प्रतिकूलतः।
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः॥ 13-250-58(91349)
कामात्क्रोधाद्भयाल्लोभादपहास्या भवन्ति ताः।
आदिप्रभृति कुस्त्रीणां तथाऽनुमरणं वृथा॥ 13-250-59(91350)
आदिप्रभृति या साध्वी पत्युः प्रियपरायणा।
ऊर्ध्वं गच्छति सा पूता भर्त्राऽनुमरणं गता॥ 13-250-60(91351)
एवं मृताया वै लोकानहं पश्यामि चक्षुषा।
स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः॥ 13-250-61(91352)
अथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः।
तूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम्।
व्रतं च पतिमुद्दिश्य कुर्यश्चैव विधिं ततः॥ 13-250-62(91353)
एवं गच्छति सा नारी पतिलोकमनुत्तमम्।
रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः॥ 13-250-63(91354)
प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता।
इति ते कथितं देव स्त्रीणां धर्मिमनुत्तमम्॥ 13-250-64(91355)
भवतः प्रियकामिन्या यन्मयोक्तं तवाग्रतः।
चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति॥ 13-250-65(91356)
नारद उवाच। 13-250-66x(7679)
एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम्।
प्रशशंस च देवेशो वाचा सञ्जनयन्प्रियम्॥ 13-250-66(91357)
ऋषयो देवगन्धर्वाः प्रमदाश्च सहस्रशः।
प्रणम्य शिरसा देवीं स्तुतिभिश्चाभितुष्टुवुः॥ 13-250-67(91358)
पूजयामासुरपरे देवदेव मुदा युताः।
संवादं चिन्तयन्त्यन्ते श्रद्दधानाः सुचेतसः॥ 13-250-68(91359)
ततस्तु देवदेवेशो देवीं वचनमब्रवीत्।
शृणु कल्याणि मद्वाक्यं संवादोऽयं मया तव।
पुण्यं पवित्रं ख्यातं च भविता नात्र संशयः॥ 13-250-69(91360)
य इमं श्रावयेद्विद्वान्संवादं चावयोः प्रिये।
शुचिर्भूत्वा नरान्युक्तान्स तैः स्वर्गं व्रजेत्सुखम्॥ 13-250-70(91361)
यस्त्वेनं शृणुयान्नित्यं संवादं चावयोः शुभम्।
कीर्तिमायुष्यमारोग्यं लभते स गतिं पराम्॥ ॥ 13-250-71(91362)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः॥ 250 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-250-59 सर्वाः पूता भवन्ति ता इति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|